न्यायसिद्धान्तमुक्तावल्याः शब्दखण्डः (NyayasiddhantaMuktavalyah Shabdakhandah)

0
Swayam
Free Online Course
Hindi
Paid Certificate Available
15 weeks long
selfpaced

Overview


अस्य पाठ्यक्रमस्य अध्ययनेन प्रमाणत्वेन अभिमत: शब्द: कीदृश:? पदलक्षणं किम्? पदं कतिविधं भवति? पदार्थ स्वरूपं किम्? का नाम वृत्ति:? शक्ति:का? का नाम लक्षणा? वाक्यस्वरूपं किम्? आकाड्क्षा नाम का? आसत्तिर्नाम का? योग्यता नाम का? तात्पर्यं नाम किम्? समासे शक्तिर्भवति न वा?प्रकृत्यर्थ: प्रत्ययार्थो वा क:? पदार्थानाम् अन्वयप्रकार: क:? शाब्दबोधे कारणं किं किं भवति? शक्तिग्रह: केन केन माध्यमेन भवति? इत्यादिविषयाणां विवेचनकौशलपुरस्सरं सम्यग् ज्ञानं भविष्यति ।
अयं पाठ्यक्रम: व्याकरणशास्त्रस्य अध्ययनं कुर्वतां न्यायशास्त्रस्य अध्ययनं कुर्वतां च कृते महान् उपकारको वर्तत एव, मीमांसावेदान्तसांख्ययोगादिविषयान् भाषाविज्ञानं च आदाय अध्ययनरतानां कृतेsपि महान् उपकारको विद्यते । यतो हि चार्वाक्-बौद्ध-वैशैषिकदर्शनानि विहाय सर्वेष्वपि दर्शनशास्त्रादिषु शब्दप्रामाण्यं स्वीकृत्य शब्दविषयक: प्रभूतो विचार:कृतो वर्तते । अत्यन्तोपयोगित्वादेव न्यायशास्त्रस्य अयं पाठ्यक्रमःसर्वत्र संस्कृत- शिक्षणसंस्थानेषु प्रायः येन केनापि रूपेण स्वीकृतो वर्तते। अस्य अध्ययनेन पूर्वोक्तविषयानां ज्ञानं भविष्यत्येव । तर्कक्षमताया: विचारदक्षताया: चिन्तनसूक्ष्मतायाश्चापि अपूर्व: कश्चन विकासो भविष्यतीति दृढतमो विश्वासो वर्तते ।

Syllabus

COURSE LAYOUT

Week 11- शाब्दबोधपरिचयः 2-पदज्ञानं तु करणम् इति कारिकाव्याख्या 3-वृत्तिः

Week 24-नानामतदृष्ट्या शक्तिविचारः 5-न्यायशास्त्रदृष्ट्या शक्तिविचारः 6-आधुनिकसंकेते शक्तिविचारः

Week 37-शक्तिग्रहोपायनिरूपणम् 1 8-शक्तिग्रहोपायनिरूपणम् 2 9-शक्तिग्रहोपायनिरूपणम् 3

Week 410-शक्तिग्रहोपायनिरूपणम् 4 11-शक्तिग्रहोपायनिरूपणम् 5 12-शक्तिग्रहोपायनिरूपणम् 6

Week 513- जातिशक्तिवादविचारः , भागः 1 14- जातिशक्तिवादविचारः, भागः 2 15-जातिशक्तिवादविचारः, भागः 3

Week 616-पदविभागः,भागः1 17- पदविभागः,भागः2 18-लक्षणाविचारः,भागः1

Week 719-लक्षणाविचारः,भागः 2 20-लक्षणाविचारः,भागः 3 21-लक्षणाविचारः,भागः 4

Week 822-समासे वृत्तिविचारः, भागः 1 23-समासे वृत्तिविचारः,भागः 3 24-समासे वृत्तिविचारः,भागः 4

Week 925-समासे वृत्तिविचारः,भागः 5 26-समासे वृत्तिविचारः,भागः 6 27-आसत्तिनिरूपणम्, भागः 1

Week 1028-आसत्तिनिरूपणम्,भागः 2 29-आसत्तिनिरूपणम्,भागः 3 30-आसत्तिनिरूपणम्,भागः 4

Week 1131-आसत्तिनिरूपणम्, भागः 5 32-योग्यतानिरूपणम् , भागः 1 33-योग्यतानिरूपणम्, भागः 2

Week 1234-आकाङ्क्षानिरूपणम् ,भागः 1 35-आकाङ्क्षानिरूपणम्,भागः 2 36-तात्पर्यनिरूपणम् ,भागः 1

Week 1337- तात्पर्यनिरूपणम् भागः 2 38-तात्पर्यनिरूपणम्,भागः 3

Week 1439-तात्पर्यनिरूपणम्,भागः

Week 154 40-पुनरावलोकनम् उपसंहारश्च

Taught by

डॉ शैलेश कुमार तिवारी